4, డిసెంబర్ 2010, శనివారం

రుద్ర ద్వాదశ నామావళి (रुद्र द्वादश नामावळी)

http://www.sriraghavendramutt.org/srsm/content/rudra-dvadashanaamavali

प्रथमं तु महादॆवं द्वितीयं तु महॆश्वरम् ।
तृतीयं शंकरं प्रॊक्तं चतुर्थं वृषभद्वजम् ॥

पंचमं कृत्तिवासं च षष्टं कामांगनाशनम् ।
सप्तमं दॆवदॆवॆशं श्रीकंठं चाष्टमं तथा ॥

नवमं तु हरं दॆवं दशमं पार्वतीपतिम् ।
रुद्रमॆकादशं प्रॊक्तं द्वादशं शिवमुच्यतॆ ॥

ऎतद्वादशनामानि त्रिसंध्यां यः पठॆन्नरः ।
गॊघ्नश्चॆव कृतघ्नश्च भ्रूणहा गुरुतल्पगः  ॥
स्त्रीबालघातकश्चॆव सुरापॊ वृषलीपतिः ।
सर्वं नाशयतॆ पापं शिवलॊकं स गच्छति  ॥

शुद्धस्फटिकसंकाशं त्रीनॆत्रं चंद्रशॆखरम् ।
इंदुमंडलमध्यस्थं वंद्य दॆवं सदाशिवम् ॥

॥इति रुद्रद्वादशनाम स्तॊत्रम् संपूर्णम् ॥

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి